गीत डाऊनलोड करें : gyanmarg.guru/gg
ज्ञानमार्ग प्रवेशद्वार : gyanmarg.guru
ब्रह्मज्ञानावलीमाला - आदि शंकराचार्य
असङगोऽहमसङगोऽहमसङगोऽहं पुनः पुनः ।
सच्चिदानन्दरुपोऽहमेवाहमव्ययः
नित्यशुद्धविमुक्तोऽहं निराकारोऽमव्ययः ।
भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः
नित्योऽहं निरवद्योऽहं निराकारोऽहमच्युतः ।
परमानन्दरूपोऽहमहमेवाहमव्ययः
शुद्धचैतन्यरूपोहमात्मारामोऽहमेव च ।
अखण्डानन्दरूपोऽहमहमेवाहमव्ययः
प्रत्यक्वैतन्यरूपोऽहं शान्तोऽहं प्रकृतेः परः ।
शाश्वतानन्दरूपोऽहमहमेवाहमव्ययः
तत्वातीतः परात्माऽहं मध्यातीतः परः शिवः ।
मायातीतः परंज्योतिरहमेवाहमव्ययः
नानारूपव्यतीतोऽहं चिदाकारोऽमच्युतः ।
सुखरूपस्वरूपोऽहमहमेवाहमव्ययः
मायातत्कार्यदेहादि मम नास्त्येव सर्वदा ।
स्वप्रकाशौकरूपोऽहमहमेवाहमव्ययः
गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम् ।
अनन्तानन्दरूपोऽहमहमेवाहमव्ययः
अन्तर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम् ।
परमात्मस्वरूपोऽहमहमेवाहमव्ययः
निष्कमोऽहं निष्क्रियोऽहं सर्वार्माऽऽद्यः सनातनः ।
अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः
द्वन्द्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः ।
सर्वसाक्षिस्वरूपोऽहमहमेवाहमेवाहमव्ययः
प्रज्ञानघन एवाहं विज्ञानघन एव च ।
अकर्ताहमभोक्ताहमहमेवाहमव्ययः
निराधारस्वरूपोऽहं सएवाधारोऽहमेव च ।
आप्तकामस्वरूपोऽहमहमेवाहमव्ययः
तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः ।
अवस्थात्रयसाक्ष्यस्मि चाहमेवाहमव्ययः
दृग्दृश्यौ द्वौ पदार्थो स्तः परस्परविलक्षणौ ।
दृग् ब्रह्म द्र्रिश्यं मायेति सर्ववेदान्तडिण्डिमः
अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः ।
स एव मुक्तः सो विद्वानिति वेदान्तडिण्दिमः
घटकुड्यादिकं सर्व मृत्तिकामात्रमेव च ।
तद्वद्ब्रह्म जगत् सर्वमिति वेदान्तडिण्दिमः
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ।
अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः
अन्तर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः ।
ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम्
#ज्ञानगीत #अध्यात्म #आत्मन #ब्रह्मन #अद्वैत #वेदांत #ज्ञानमार्ग #ज्ञानयोग
5 июл 2024