द्वादश ज्योतिर्लिङ्ग स्तोत्रम्
लघु स्तोत्रम्
सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् |
उज्जयिन्यां महाकालं ओङ्कारेत्वमामलेश्वरम् ‖
पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् |
सेतुबन्धेतु रामेशं नागेशं दारुकावने ‖
वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे |
हिमालयेतु केदारं घृष्णेशन्तु विशालके ‖
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः |
सप्त जन्म कृतं पापं स्मरणेन विनश्यति ‖
सम्पूर्ण स्तोत्रम्
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् |
भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ‖ 1 ‖
श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम् |
तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ‖ 2 ‖
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् |
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ‖ 3 ‖
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय |
सदैव मान्धातृपुरे वसन्तं ओङ्कारमीशं शिवमेकमीडे ‖ 4 ‖
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् |
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ‖ 5 ‖
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च |
सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ‖ 6 ‖
श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः |
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ‖ 7 ‖
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः |
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ‖ 8 ‖
सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापबृन्दम् |
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ‖ 9 ‖
सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे |
यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ‖ 10 ‖
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः |
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ‖ 11 ‖
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् |
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ‖ 12 ‖
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण |
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ‖
20 авг 2020