अथ श्री सूक्तं
ध्यानम्
अरुणकमलसंस्था तद्रजः पुंजवर्णा कर कमल धृतेष्टाभीतियुग्माम्बुजाच । मणिकटकविचित्राऽऽलंकृताऽऽकल्प जालैः सकल भुवनमाता संततं श्रीः श्रियै नः
ॐ हिरण्यवर्णां हरिणीं सुवर्ण रजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म ऽ आवह |१| तां मऽआवह जातवेदो लक्ष्मी मनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् |२| अश्वपूर्वां रथमध्यां हस्तिनाद प्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मादेवी जुषताम् |३| कांसोस्मितां हिरण्यप्राकारामाद्र्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्।
पद्मेस्थितां पद्मवर्णां तामिहोपह्वयेश्रियम् |४|
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मीनीमीं शरणमहंप्रपद्ये ऽ लक्ष्मीर्मेनश्यतां त्वां वृणे |५|
आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोथबिल्वः ।
तस्यफलानि तपसानुदन्तु मायान्तरायाश्च बाह्याऽअलक्ष्मीः |६|
उपैतुमां देवसखःकीर्तिश्च मणिना सह ।
प्रादुर्भूतो सुराष्ट्रेस्मिन्कीर्तिमृद्धिं ददातु मे |७ |
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् |८|
गन्धद्वारां दुराधर्षा नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् |९|
मनसः काममाकूति वाचः सत्यमशीमहि ।
पशूनां रूपमनस्य मयिश्रीः श्रयतां यशः |१०|
कर्दमेन प्रजाभूता मयिसम्भव कर्दम ।
श्रियं वासयमेकुले मातरं पद्ममालिनीम् |११|
आपः स्रजन्तु स्निग्धानि चिक्लीतवसमेगृहे ।
निचदेवीं मातरं श्रियं वासय मे कुले |१२|
आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम ऽ आ वह |१३|
आर्द्रां यःकरिणीं यष्टिं सुवर्णां हेममालिनीम् |
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदोम ऽ आवह |१४|
तांम ऽ आवहजातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यप्रभूतं गावोदास्योश्वान्विदेयं पुरुषानहम् |१५|
यःशुचिः प्रयतोभूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च श्री कामः सततंजपेत् |१६|
पद्मानने पद्मऊरु पद्माक्षि पद्मसम्भवे ।
तन्मे भजसि पद्माक्षी येन सौख्यं लभाम्यहम्।
अश्वदायै गोदायै धनदायै महाधने ।
धनंमे जुषतादेवि सर्वकामांश्चदेहिमे।
पद्मानने पद्मविपद्म पत्रे पद्मप्रिये पद्मदलो यताक्षि ।
विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्म मयिसन्निधत्स्व |
पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवेरथम्।
प्रजानां भवसि माता ऽ आयुष्मन्तं करोतु मे।
धनमग्निर्धनं वायुर्धनं सूर्योधनं वसुः ।
धनमिन्द्रो बृहस्पति र्वरुणं धनमश्विनौ ।
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यंददातुसोमिनः।
न क्रोधो न च मात्सर्यं न लोभोनाशुभामतिः ।
भविन्तकृत पुण्यानां भक्तानां श्रीसूक्तं जपेत् |
सरसिजनिलये सरोज हस्ते धवलतरां शुक गन्धमाल्य शोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् |
विष्णुपत्नी क्षमां देवीं माधवीं माधवप्रियाम् ।
लक्ष्मी प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् |
महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि |
तन्नो लक्ष्मीः प्रचोदयात् ||
इति श्रीसूक्तम् सम्पूर्णं ||
6 май 2020