Тёмный

॥Shri Shankar Exclusive Devotional Stotra॥ ॥ श्रीशङ्करप्रपत्तिस्तोत्रम् ॥.R K VYASS PALJI 9414849604 

Rajendra Kumar Vyas Palji
Подписаться 155 тыс.
Просмотров 1,3 тыс.
50% 1

वनस्थ योगी श्री ६ श्री गुरु श्री शिवदत्त स्मारक गड्डी, जोधपुर
पं राजेन्द्र कुमार व्यास “पालजी”
Pt. Rajendra Kumar Vyas “Palji”
9414849604
॥ श्रीशङ्करप्रपत्तिस्तोत्रम् ॥
(शिवरहस्यान्तर्गते उग्राख्ये)
यत्पादपद्मं निगमान्तवेद्यं यत्पादपद्मं मुनिवृन्दवन्द्यम् ।
यत्पादपद्मं विधिविष्णुमृग्यं तत्पादपद्मं शरणं व्रजामि॥१७४॥
यत्पादपद्याम्बुजमादिविष्णुः स्वनेत्रपद्मेन मनोहरेण ।
समर्चायामास तदर्चनेन सौभाग्यमुक्ति सुलभेन लप्स्ये॥१७५॥
यत्पादपद्माम्बुजरेणुमिष्टं मुकुन्दचन्द्रेन्द्र चतुर्मुखाद्याः ।
समर्चयन्त्यन्वहमादरेण तत्पादपद्मं शरणं व्रजामि॥१७६॥
यन्नामसङ्कीर्तनमेकमेव विनाशयत्याशु महाघसङ्घम् ।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१७७॥
यन्नाममात्रोच्चरणेन सद्यो धन्या भवन्त्येव हि पापिनोऽपि।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१७८॥
यन्नाम देहक्षयपूर्वकाले स्मृतं ददात्येव हि मोक्षमेकम् ।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१७९॥
यन्नामतत्त्वं न विधिर्विदेद यन्नामतत्त्वं न विवेद विष्णुः ।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१८०॥
यन्नामतत्त्वं न विवेद वेदो-ऽप्यनन्तशाखः सकलस्वरूपः।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१८१॥
यन्नामसंसारसमुद्रमुद्रा-विद्रावकं सर्वभयापहारि ।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१८२॥
यन्नामदिव्यामृतपानसक्ता निन्दन्ति देवानपि विष्णुमुख्यान्।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१८३॥
यन्नामपीयूषमपीय मूढा भवन्ति संसारसमुद्रमग्नाः ।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१८४॥
यन्नाम गोकोटिसहस्रकोटि-प्रदानपुण्याधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१८५॥
यन्नाम यागायुतकोटिकोटि-सहस्रपुण्याधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१८६॥
यन्नाम मत्तोन्नतदन्तिकोटि-प्रदानपुण्याधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१८७॥
यन्नाम रत्नोन्नतकोटिकोटि तुला प्रदानाधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१८८॥
यन्नाम शुभ्रोत्तमवाजिकोटि-प्रदानपुण्याधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१८९॥
यन्नाम सन्तप्तसुवर्णकोटि-कोटिप्रदानाधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१९०॥
यन्नाम कन्याजनकोटिकोटि-प्रदानपुण्याधिकपुण्यपुण्यम्।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१९१॥
यन्नाम सस्यावृतासर्वपृथ्वी-प्रदानपुण्याधिकपुण्यपुण्यम्।
तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम्॥१९२॥
॥ इति शिवरहस्यान्तर्गते श्रीशङ्करप्रपत्तिस्तोत्रं सम्पूर्णम् ॥

Опубликовано:

 

2 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 9   
@paranm.shunyataa
@paranm.shunyataa Месяц назад
नमः शिवाय धन्यवाद जय शिव शंभू शंकर
@shashibhushansingh9934
@shashibhushansingh9934 Месяц назад
ॐ नमः शिवाय🙏🙏 ॐ नमः शिवाय🙏🙏
@deepak491
@deepak491 Месяц назад
ॐ नमः शिवाय
@Lalitsingh-ks2tp
@Lalitsingh-ks2tp Месяц назад
🌹II जै श्री दादाजी II🌹
@showstopperyashshukla2558
@showstopperyashshukla2558 Месяц назад
Jay ho prabhuji 🙏🙏🙏
@suryamelodies
@suryamelodies Месяц назад
🛕💘💐प्रभु जी 🚩श्री❣️राजेंद्र🌲kr💘व्यास🦜जी☘️द्वारा🌴🌺🔥 💓🌷🙏 अति 🤓🤣मनोहारी♦️और🦜सुमधुर🥀स्वरों में❤️🧡💜 💕🥀श्री🛕शंकर🌹प्रपत्ति🌻स्तोत्रम🌷💕का💓गायन🌻किया गया💖♥️💙 💗💔💚कोटि🌹कोटि❣️ साधुवाद🙏☘️सीताराम🤎💔 💔🧡💚लखनऊ❤️💜से🏵️ pt🌄सूर्यकांत🙏💓तिवारी🚩☘️🦜
@user-im1mr2cf1n
@user-im1mr2cf1n Месяц назад
🙏🚩🌹🕉જય ગુરુદેવ દત્ત 🕉🌹🚩🙏
@kiransharma-yj8cm
@kiransharma-yj8cm Месяц назад
जय श्री महाकाल 💛💛🙏🏻🙏🏻🙏🏻🙏🏻 गुरु महाराज आप कि चरन कमलों में कोटि कोटि नमन 🙏🏻🙏🏻🌺🌺🌿🌿🌷🌷✨🌷🌷✨🌷🌷
@kavitarkvyaspalji1334
@kavitarkvyaspalji1334 Месяц назад
श्री गुरु महाराज के श्रीचरणों में कोटि कोटि नमन
Далее