वनस्थ योगी श्री ६ श्री गुरु श्री शिवदत्त स्मारक गड्डी, जोधपुर
पं राजेन्द्र कुमार व्यास “पालजी”
Pt. Rajendra Kumar Vyas “Palji”
9414849604
॥ श्रीसीतारामस्तव॥
॥ श्री हनुमान स्तव ॥
प्रनवउं पवनकुमार
खल बन पावक ज्ञानघन।
जासु हृदय आगार
बसहिं राम सर चाप धर॥
अतुलितबलधामं हेमशैलाभदेहं।
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्॥
सकलगुणनिधानं वानराणामधीशं।
रघुपतिप्रियभक्तं वातजातं नमामि॥
गोष्पदीकृतवारीशं मशकीकृतराक्षसम्।
रामायणमहामालारत्नं वन्देऽनिलात्मजम्॥
अञ्जनानन्दनं वीरं जानकीशोकनाशनम्।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम्॥
उल्लङ्घ्य सिन्धोस्सलिलं सलीलं
यः शोक वह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ७॥
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये॥
आञ्जनेयमतिपाटलाननं
काञ्चनाद्रिकमनीय विग्रहम्।
पारिजाततरूमूल वासिनं
भावयामि पवमाननंदनम्॥
यत्र यत्र रघुनाथकीर्तनं
तत्र तत्र कृतमस्तकाञ्जलिम् ।
वाष्पवारिपरिपूर्णलोचनं
मारुतिं नमत राक्षसान्तकम् ॥
॥ श्रीसीतारामस्तव॥
वैदेही सहितं सुरद्रुमतले
हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये
वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते
तत्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं
रामं भजे श्यामलम् ॥
वामे भूमिसुता पुरश्च हनुमान्
पश्चात् सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोः
वाय्वादि कोणेषु च।
सुग्रीवश्च विभीषणश्च युवराट्
तारासुतो जांबवान्
मध्ये नील सरोज कोमळरुचिं
रामं भजे श्यामळं॥
नमोऽस्तु रामाय सलक्ष्मणाय
देव्यै च तस्यै जनकात्मजायै।
नमोऽस्तु रुद्रेंद्रयमानिलेभ्यो
नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥
श्रीरामचन्द्रं सततं स्मरामि
राजीवनेत्रं सुरवृन्दसेव्यम् ।
संसारबीजं भरताग्रजं श्री-
सीतामनोज्ञं शुभचापमञ्जुम् ॥ १॥
रामं विधीशेन्द्रचयैः समीड्यं
समीरसूनुप्रियभक्तिहृद्यम् ।
कृपासुधासिन्धुमनन्तशक्तिं
नमामि नित्यं नवमेघरूपम् ॥ २॥
सदा शरण्यं नितरां प्रसन्न-
मरण्यभूक्षेत्रकृताऽधिवासम् ।
मुनीन्द्रवृन्दैर्यतियोगिसद्भि-
रुपासनीयं प्रभजामि रामम् ॥ ३॥
अनन्तसामर्थ्यमनन्तरूप-
मनन्तदेवैर्निगमैश्च मृग्यम् ।
अनन्तदिव्याऽमृतपूर्णसिन्धुं
श्रीराघवेन्द्रं नितरां स्मरामि ॥ ४॥
श्रीजानकीजीवनमूलबीजं
शत्रुघ्नसेवाऽतिशयप्रसन्नम् ।
क्षपाटसङ्घाऽन्तकरं वरेण्यं
श्रीरामचन्द्रं हृदि भावयामि ॥ ५॥
पुरीमयोध्यामवलोक्य सम्यक्
प्रफुल्लचित्तं सरयूप्रतीरे ।
श्रीलक्ष्मणेनाऽञ्चितपादपद्मं
श्रीरामचन्द्रं मनसा स्मरामि ॥ ६॥
श्रीरामचन्द्रं रघुवंशनाथं
सच्चित्रकूटे विहरन्तमीशम् ।
परात्परं दाशरथिं वरिष्ठं
सर्वेश्वरं नित्यमहं भजामि ॥ ७॥
दशाननप्राणहरं प्रवीणं
कारुण्यलावण्यगुणैककोषम् ।
वाल्मीकिरामायणगीयमानं
श्रीरामचन्द्रं हृदि चिन्तयामि ॥ ८॥
सीतारामस्तवश्चारु
सीतारामाऽनुरागदः ।
राधासर्वेश्वराद्येन
शरणान्तेन निर्मितः ॥ ९॥
॥ इति श्रीसीतारामस्तव:॥
9 июл 2024