संसार-दावानल-लीढ-लोक-
त्राणाय कारुण्य-घनाघनत्वम्
प्राप्तस्य कल्याण-गुणार्णवस्य
वन्दे गुरोः श्री-चरणारविन्दम्
महाप्रभोः कीर्तन-नृत्य-गीत-
वादित्र-माद्यन-मनसो रसेन
रोमाञ्च-कम्पाश्रु-तरङ्ग-भाजो
वन्दे गुरोः श्री-चरणारविन्दम्
श्री-विग्रहाराधन-नित्य-नाना-
शृङ्गार-तन्-मन्दिर-मार्जनादौ
युक्तस्य भक्तांश् च नियुञ्जतोऽपि
वन्दे गुरोः श्री-चरणारविन्दम्
चतुर्-विध-श्री-भगवत्-प्रसाद-
स्वाद्व्-अन्न-तृप्तान् हरि-भक्त-सङ्घान्
कृत्वैव तृप्तिं भजतः सदैव
वन्दे गुरोः श्री-चरणारविन्दम्
श्री-राधिका-माधवयोर्-अपार-
माधुर्य-लीला गुण-रूप-नाम्नाम्
प्रति-क्षणास्वादन-लोलुपस्य
वन्दे गुरोः श्री-चरणारविन्दम्
निकुञ्ज-यूनो रति-केलि-सिद्ध्यै
या यालिभिर् युक्तिर् अपेक्षणीया
तत्राति-दाक्ष्याद् अति-वल्लभस्य
वन्दे गुरोः श्री-चरणारविन्दम्
साक्षाद् धरित्वेन समस्त-शास्त्रैर्
उक्तस् तथा भाव्यत एव सद्भिः
किन्तु प्रभोर् यः प्रिय एव तस्य
वन्दे गुरोः श्री-चरणारविन्दम्
यस्य प्रसादाद् भगवत्-प्रसादो
यस्याप्रसादान् न गतिः कुतोऽपि
ध्यायन् स्तुवंस् तस्य यशस् त्रि-सन्ध्यं
वन्दे गुरोः श्री-चरणारविन्दम्
श्रीमद्-गुरोर् अष्टकम् एतद् उच्चैर्
ब्राह्मे मुहूर्ते पठति प्रयत्नात्
यस् तेन वृन्दावन-नाथ साक्षात्
सेवैव लभ्या जुषणोऽन्त एव
Charanarvindam:
Telegram Link:
t.me/Charanarvindam
Facebook Link:
/ charanarvindam
RU-vid Link:
bit.ly/Charanarvindam
WhatsApp Link:
chat.whatsapp.com/JKEkW4le0We...
29 ноя 2018