श्रीरामरक्षा स्तोत्र
विनियोग:--
ॐ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य विश्वामित्र ऋषि:, अनुष्टुप् छन्द: श्रीरामचन्द्रो देवता रां बीजं नमः
शक्ति: रामाय कीलकं श्रीरामचन्द्रप्रसादसिद्धि द्वारा मम सर्वतो रक्षापूर्वक नानाविधप्रयोगसिद्धये श्रीरामरक्षास्तोत्रमन्त्रस्य स्पर्शपाठे विनियोग: ।
ऋष्यादिन्यास:--
विश्वामित्राय ऋषये नम: शिरसि।
अनुष्टुप्छन्दसे नमो मुखे।
श्रीरामचन्द्रदेवतायै नमो हृदि।
रां बीजाय नमो गुह्ये।
नम: शक्तये नम: पादयो:।
रामायेति कीलकाय नमो नाभौ ।
करन्यास:--
रां अंगुष्ठाभ्यां नमः।
रां तर्जनीभ्यां नम:।
मां मध्यमाभ्यां नम: ।
यं अनामिकाभ्यां नम: ।
नं कनिष्ठिकाभ्यां नमः
म: करतलकरपृष्ठाभ्यां नम:।
हृदयादिन्यास:--
रां हृदयाय नम:।
रां शिरसे स्वाहा ।
मां शिखायै वषट् ।
यं कवचाय हुं ।
नं नेत्रत्रयाय वौषट्।
म: अस्त्राय फट् ।
"ॐ हुं फट्" इति दिग्बन्ध: ।
ध्यानम् --
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥1॥
सासितूणधनुर्बाणपाणिं नक्तञ्चरान्तकम् । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥2॥
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरोमे राघवः पातु भालं दशरथात्मजः ॥3॥ कौशल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥4॥
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥5॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥6॥ सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥7॥
जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः ।
पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः ॥8॥
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥9॥ पातालभूतलव्योमचारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥10॥
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥11॥ जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥12॥ वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् ।
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥13॥ आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥14॥
इति श्रीविश्वामित्रविरचितं रामरक्षास्तोत्रं सम्पूर्णम्।
पुरश्चरणविधि--
प्रतिदिन नवरात्र में 108 स्पर्श पाठ करें।
इससे यह स्तोत्र सिद्ध हो जायेगा । किसी भी कवच या स्तोत्र का 10000पाठ सम्पन्न होने पर वह सिद्ध हो जाता है । 10000पाठ से इसमें विशेष ऊर्जा आ जायेगी ।
और 125000पाठ होने के बाद साधक विघ्नों से या ग्रहादि पीडा से अभिभूत नहीं होता है । कोई कृत्या या मूठ अथवा काला जादू उसका बाल भी बांका नहीं कर सकता है ।
प्रतिदिन 108पाठ आधे घंटे में हो जाते हैं। इससे कुंडलिनी जागरण आदि क्रियायें भी होती हैं । जो सबके समक्ष प्रकट नहीं किया जा सकता है ।
जय श्रीराम
--#आचार्यसियारामदासनैयायिक
5 авг 2024