वनस्थ योगी श्री ६ श्री गुरु श्री शिवदत्त स्मारक गड्डी, जोधपुर
पं राजेन्द्र कुमार व्यास “पालजी”
Pt. Rajendra Kumar Vyas “Palji”
9414849604
Join this channel to get access to perks:
/ @kavitarkvyaspalji1334
॥ श्रीयोगेश्वरी पंचकम् ॥
॥ श्रीगणेशाय नमः ॥
योगेशा सुरपूजिता भगवती त्रैलोक्यमन्दाकिनी
देवेशा गिरिजा महेश्वरप्रिया ब्राह्मी महायोगिनी ।
विद्या शान्तिप्रदा तथैव कमला बाला च नारायणी
पुत्रोऽहं नु तवास्मि चारुवदने मातर्प्रसन्ना भव॥१॥
आम्राकारमुखं प्रफुल्लकमलं सौभाग्यरेखाङ्कितम्
ताम्बूलं च मुखे प्रसन्नवदनं सिन्दूर आलेपनम् ।
सर्वानर्थहरं सदाशुभकरं अक्ष्णोः प्रद्योतनम्
पुत्रोऽहं नु तवास्मि चारुवदने मातर्प्रसन्ना भव॥२॥
मालापद्मधरा चतुर्भुजधरा योगेश्वरी शर्वरी
ध्वान्तशात्रवसर्वलोकजननी माहेश्वरी श्रीकरी ।
नानारुपधरी सदाशुभकरी भूलोकलोकेश्वरी
पुत्रोऽहं नु तवास्मि चारुवदने मातर्प्रसन्ना भव॥३॥
कूष्माण्डा च रमा तथैव च उमा कात्यायनी पार्वती
गायत्री कमलासना भगवती विष्णोः च पद्मावती ।
सावित्री परमा सदाशिवप्रिया कौमारी सा वैष्णवी
पुत्रोऽहं नु तवास्मि चारुवदने मातर्प्रसन्ना भव॥४॥
नानादैत्यविनाशिनी भगवती ब्रह्मण्यरक्षाकरी
वेदानां च सरस्वती भगवती देवी दयासागरी ।
सीता रामप्रभोः महापतिव्रता दुर्गा च रामेश्वरी
पुत्रोऽहं नु तवास्मि चारुवदने मातर्प्रसन्ना भव॥५॥
योगेश्वरि जगन्मातः पितः शम्भो महेश्वर ।
रामकृष्णस्य शिष्याय यशः ज्ञानं प्रयच्छतम् ॥
॥ इति श्री योगेश्वरी पंचकं सम्पूर्णम्॥
17 июн 2024