वनस्थ योगी श्री ६ श्री गुरु श्री शिवदत्त स्मारक गड्डी, जोधपुर
पं राजेन्द्र कुमार व्यास “पालजी”
Pt. Rajendra Kumar Vyas “Palji”9414849604
॥ महामृत्युञ्जयाष्टकम् ॥
ॐ मृत्युञ्जय ! परेशान
जगदामयनाशन ! ।
तव ध्यानेन देवेश !
मृत्युं प्राप्तोऽपि जीवति ॥ १॥
पञ्चास्यदोर्द्दण्डदशाङ्घ्रिनेम
दिनेशभालेन्दुयुतं गणेशैः ।
वामाङ्गसंस्थागिरिजासमेतं
वन्दे महामृत्युविनाशरूपम् ॥ २॥
देवं मृत्युविनाशनं भयहरं
साम्राज्यमुक्तिप्रदं
नानाभूतगणान्वितं दिवि पदै-
र्देवैः सदा सेवितम् ।
अज्ञानान्धकनाशनं शुभकरं
विद्यासुसौख्यप्रदं
सर्वं सर्वपतिं महेश्वरहरं
मृत्युञ्जयं भावये ॥ ३॥
वन्दे ईशानदेवाय
नमस्तस्मै पिनाकिने ।
आदिमध्यान्तरूपाय
मृत्युनाशं करोतु मे ॥ ४॥
नमस्तस्मै भगवते
कैलासाचलवासिने ।
नमो ब्रह्मेन्द्ररूपाय
मृत्युञ्जय प्रसीद मे ॥ ५॥
नमो विष्ण्वर्करूपाय
नमो ज्ञानस्वरूपिणे ।
मृत्युं नाशयतामाशु
मृत्युञ्जय प्रसीद मे ॥ ६॥
त्र्यम्बकाय नमस्तुभ्यं
पञ्चास्याय नमो नमः ।
दोर्द्दण्डचापाय नमो
मम मृत्युं विनाशय ॥ ७॥
नमोऽर्धेन्दुस्वरूपाय
नमो दिग्वसनाय च ।
नमो भक्तार्तिहन्त्रे च
मम मृत्युं विनाशय ॥ ८॥
मृत्युञ्जयाष्टकं दिव्यं
त्रिकाले यः पठेन्नरः ।
अपमृत्युर्व्रजेत्तस्य
सत्यं सत्यं शिवाज्ञया ॥ ९॥
अर्धरात्रे जपेन्नित्यं
चतुरशीतिसङ्ख्यया ।
काले मृत्युर्विनश्येत
अकालाल्पस्य का कथा॥ १०॥
आलस्येनाप्रसङ्गेन
श्रद्धाहीनेन चेतसा ।
पठेद्यद्यप्यकालेषु
ध्रुवं मृत्युं निवारयेत् ॥ ११॥
॥ इति महामृत्युञ्जयाष्टकम् ॥
27 июн 2024