Join this channel to get access to perks:
/ @kavitarkvyaspalji1334
॥ रामाष्टकं ॥
कृतार्तदेववन्दनं दिनेशवंशनन्दनम्।
सुशोभिभालचन्दनं नमामि राममीश्वरम्॥१॥
मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम्।
महाधनुर्विदारकं नमामि राममीश्वरम्॥२॥
स्वतातवाक्यकारिणं तपोवने विहारिणम्।
करे सुचापधारिणं नमामि राममीश्वरम्॥३॥
कुरङ्गमुक्तसायकं जटायुमोक्षदायकम्।
प्रविद्धकीशनायकं नमामि राममीश्वरम्॥४॥
प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम् ।
दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम्॥५॥
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम्।
स्वबन्धुशोककर्षणं नमामि राममीश्वरम्॥६॥
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम्।
कृतास्तमोहलक्षणं नमामि राममीश्वरम्॥७॥
हताखिलाचलाभरं स्वधामनीतनागरम्।
जगत्तमोदिवाकरं नमामि राममीश्वरम्॥८॥
इदं समाहितात्मना नरो रघूत्तमाष्टकम्।
पठन्निरन्तरं भयं भवोद्भवं न विन्दते॥९॥
॥इति श्री परमहंस स्वामी ब्रह्मानंद विरचित रामाष्टकं सम्पूर्णम्॥
16 июн 2024