Тёмный

Tara Stotram Neel Sarswati Tarashtkam ॥ तारास्तोत्रम् वा ताराष्टकं वा श्रीनीलसरस्वतीस्तोत्रम् ॥ 

Rajendra Kumar Vyas Palji
Подписаться 155 тыс.
Просмотров 839
50% 1

वनस्थ योगी श्री ६ श्री गुरु श्री शिवदत्त स्मारक गड्डी, जोधपुर
पं राजेन्द्र कुमार व्यास “पालजी”
Pt. Rajendra Kumar Vyas “Palji”
9414849604
॥ तारास्तोत्रम् वा ताराष्टकं वा
श्रीनीलसरस्वतीस्तोत्रम् ॥
श्रीगणेशाय नमः ।
मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे
प्रत्यालीढपदस्थिते शिवहृदि स्मेराननाम्भोरुहे ।
फुल्लेन्दीवरलोचने त्रिनयने कर्त्रीकपालोत्पले
खड्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥ १॥
वाचामीश्वरि भक्तिकल्पलतिके सर्वार्थसिद्धिश्वरि
गद्यप्राकृतपद्यजातरचनासर्वार्थसिद्धिप्रदे ।
नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निधे
सौभाग्यामृतवर्धनेन कृपयासिञ्च त्वमस्मादृशम् ॥ २॥
शर्वे गर्वसमूहपूरिततनो सर्पादिवेषोज्वले
व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते ।
सद्यःकृत्तगलद्रजःपरिमिलन्मुण्डद्वयीमूर्द्धज-
ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय॥३॥
मायानङ्गविकाररूपललनाबिन्द्वर्द्धचन्द्राम्बिके
हुंफट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः ।
मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा
वेदानां नहि गोचरा कथमपि प्राज्ञैर्नुतामाश्रये ॥ ४॥
त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां
तस्याः श्रीपरमेश्वरत्रिनयनब्रह्मादिसाम्यात्मनः ।
संसाराम्बुधिमज्जने पटुतनुर्देवेन्द्रमुख्यासुरान्
मातस्ते पदसेवने हि विमुखान् किं मन्दधीः सेवते॥५॥
मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते
देवा जयसङ्गरे विजयिनो निःशङ्कमङ्के गताः ।
देवोऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः परे
तत्तुल्यां नियतं यथा शशिरवी नाशं व्रजन्ति स्वयम्॥६॥
त्वन्नामस्मरणात्पलायनपरान्द्रष्टुं च शक्ता न ते
भूतप्रेतपिशाचराक्षसगणा यक्षश्च नागाधिपाः ।
दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो
डाकिन्यः कुपितान्तकश्च मनुजान् मातः क्षणं भूतले॥७॥
लक्ष्मीः सिद्धिगणश्च पादुकमुखाः सिद्धास्तथा वैरिणां
स्तम्भश्चापि वराङ्गने गजघटास्तम्भस्तथा मोहनम् ।
मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः
क्लान्तः कान्तमनोभवोऽत्र भवति क्षुद्रोऽपि वाचस्पतिः॥८॥
फलश्रुतिः -
ताराष्टकमिदं पुण्यं भक्तिमान् यः पठेन्नरः ।
प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः ॥ ९॥
लभते कवितां विद्यां सर्वशास्त्रार्थविद्भवेत्
लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान्यथेप्सितान्॥१०॥
कीर्तिं कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत् ।
विख्यातिं चापि लोकेषु प्राप्यान्ते मोक्षमाप्नुयात्॥११॥
॥ इति श्रीबृहन्नीलतन्त्रे तारास्तोत्रं वा ताराष्टकं वा
श्रीनीलसरस्वतीस्तोत्रम् सम्पूर्णम् ॥

Опубликовано:

 

4 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 9   
@prakashpandey4025
@prakashpandey4025 27 дней назад
Jay hoo Jay hoo Om
@laxmishrestha6681
@laxmishrestha6681 26 дней назад
Om Om Jay Jay Maa
@arjundev7163
@arjundev7163 26 дней назад
Jai ho guru ji aap ki🎉🎉
@shashibhushansingh9934
@shashibhushansingh9934 26 дней назад
जय माँ सरस्वती माता की जय🙏🙏
@arjundev7163
@arjundev7163 26 дней назад
Jai mata di 🙏🏻💐🙏🏻💐🌹
@showstopperyashshukla2558
@showstopperyashshukla2558 26 дней назад
Jay ho prabhuji 🙏🙏🙏
@RajD2013
@RajD2013 26 дней назад
Jai Jai ho aap ki
@SatyamSingh-um4tu
@SatyamSingh-um4tu 26 дней назад
Jai Ho Shree Mata Kalika Mata Tara Mata Saraswati Mata Kalika Mata 🦁🦁🌼🌼🌼🪷🪷🪷🪷🪷🌺🌺🌺🌺🌸🌸🌸🌺🌺🌺🌺🪷🪷🪷🪷🌸🌸🌸🙇
@user-im1mr2cf1n
@user-im1mr2cf1n 25 дней назад
🙏🚩🌹🕉જય ગુરુદેવ દત્ત🕉🌹 🚩🙏
Далее
ЗЕНИТ - РОСТОВ: обзор матча
01:03
Просмотров 191 тыс.
Как похудеть на 10 кг ?! БЫСТРО!
07:06
शिवाष्टकम् स्त्रोत
6:49